|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.19. अध्यायः 019
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
श्रीकृष्णेन भीष्मंप्रति युधिष्ठिराय गरुडोपाख्यानकथनचोदना॥ 1 ॥

Mahabharata - Anushaasana Parva - Chapter Text
`युधिष्ठिर उवाच।
गरुडः पक्षिणां श्रेष्ठ इति पूर्वं पितामह।
उक्तस्त्वया महाबाहो श्वेतवाहं प्रशंसता॥ 13-19-1(81782)
अत्र कौतूहल इति श्रवणे जायते मतिः।
कथं गरुत्मान्पक्षीणां श्रैष्ठ्यं प्राप परन्तप॥ 13-19-2(81783)
सुपर्णो वैनतेयश्च केन शत्रुश्च भोगिनाम्।
किंवीर्यः किंबलश्चासौ वक्तुमर्हसि भारत॥ 13-19-3(81784)
भीष्म उवाच। 13-19-4x(6793)
वासुदेव महाबाहो देवकी सुप्रजास्त्वया।
श्रुतं ते धर्मराजस्य मम हर्षविवर्धन॥ 13-19-4(81785)
सुपर्णं शंस इत्येव मामाह कुरुनन्दनः।
अस्य प्रवक्तुमिच्छामि त्वयाऽज्ञप्तो महाद्युते॥ 13-19-5(81786)
त्वं हि शौरे महाबाहो सुपर्णः प्रोच्यसे पुरा।
अनादिनिधने काले गरुडश्चासि केशव॥ 13-19-6(81787)
तस्मात्पूर्वं प्रसाद्य त्वां धर्मपुत्राय धीमते।
गरुडं पततांश्रेष्ठं वक्तुमिच्छामि माधव॥ 13-19-7(81788)
वासुदेव उवाच। 13-19-8x(6794)
यथैव मां भवान्वेद तथा वेद युधिष्ठिरः।
यथा च गरुडो जातस्तथाऽस्मै ब्रूहि तत्वतः'॥ ॥ 13-19-8(81789)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनविंशोऽध्यायः॥ 19 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|